← Back to Weekly Classes

महाकविर्कालिदासस्य
रघुवंशम् उपमा-सङ्ग्रहः

A structured study of poetic similes (Upama) across the cantos of Raghuvamsham.

Read Raghuvamsha Online ↗ Most updated class notes ↗

वसिष्ठाश्रमाभिगमनम् (Vashisthashramabhigamanam)

क्रमः श्लोकः उपमानम् उपमेयम् वाचकः साधारणधर्मः
1-1
वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥
Parvathi and Parameshwara Vak and artha इव Inseparability
1-3
मन्दः कवियशःप्रार्थी गमिष्याम्युपहास्यताम् ।
प्रांशुलभ्ये फले लोभादुद्बाहुरिव वामनः ॥
Udbahu Vamana Manda person yasha prarthi इव Climbing to get something
1-4
अथ वा कृतवाग्द्वारे वंशेऽस्मिन्पूर्वसूरिभिः ।
मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः
Putting a thread in a hole which has been made using a diamond needle Telling about Ramayana in the lines of people who have already spoken about it इव Easiness
1-10
तं सन्तः श्रोतुमर्हन्ति सदसद्व्यक्तिहेतवः ।
हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा
Gold is tested in fire Experts criticise Raghuvamsham - Testing
1-11
वैवस्वतो मनुर्नाम माननीयो मनीषिणाम् ।
आसीन्महीक्षितामाद्यः प्रणवश्छन्दसामिव ॥
Pranava in vedam Vaivasta manu amongst men इव Firstness
1-12
तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः ।
दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव ॥
Moon in the milky ocean Dilipa in that lineage इव Purer
1-13
व्यूढोरस्को वृषस्कन्धः शालप्रांशुर्महाभुजः ।
आत्मकर्मक्षमं देहं क्षात्रो धर्म इवाश्रितः ॥
Kshatriya duty taking form Dilipa's appearance इव Physical form
1-14
सर्वातिरिक्तसारेण सर्वतेजोभिभाविना ।
स्थितः सर्वोन्नतेनोर्वीं क्रान्त्वा मेरुरिवात्मना ॥
Mount Meru Dilipa's appearance इव Tallest
1-16
भीमकान्तैर्नृपगुणैः स बभूवोपजीविनाम् ।
अधृष्यश्चाभिगम्यश्य यादोरत्नैरिवार्णवः ॥
Ocean with terrifying monsters and gems Awe-inspiring and pleasing qualities of Dilipa इव Both unapproachable and accessible
1-17
रेखामात्रमपि क्षुण्णादा मनोर्वर्त्मनः परम् ।
न व्यतीयुः प्रजास्तस्य नियन्तुर्नेमिवृत्तयः ॥
Wheel follows a well beaten track Subjects in Dilipa's rule - Not deviating
1-18
प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत् ।
सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः ॥
Sun giving back 1000 fold in form of rain Dilipa collecting tax हि Collecting only to give back
1-20
तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च ।
फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव ॥
Hidden impressions of past lives Dilipa's results इव It can only be inferred
1-22
ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः ।
गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव ॥
Siblings born together Opposite qualities of Dilipa silence in knowledge forgiveness in power lack of self-praise in charity इव Twins
1-28
द्वेष्योऽपि संमतः शिष्टस्तस्यार्तस्य यथौषधम् ।
त्याज्यो दुष्टः प्रियोऽप्यासीदङ्गुलीवोरगक्षता ॥
Take medicine to sick man cut finger bitten by a snake Even enemy was accetable to Dilipa if right he abandoned loved if that person was wicked यथा Accept and reject
1-31
तस्य दाक्षिण्यरूढेन नाम्ना मगधवंशजा ।
पत्नी सुदक्षिणेत्यासीदध्वरस्येव दक्षिणा ॥
Sacrificial fee to a sacrifice Sudakshina इव Like offering(sacrifice)
1-36
स्निग्धगम्भीरनिर्घोषमेकं स्यन्दनमाश्रितौ ।
प्रावृषेण्यं पयोवाहं विद्युदैरावताविव ॥
Airavata(male) and Vidyut(female) sitting Dilipa and Sudakshina sitting on single chariot इव Sitting
1-37
मा भूदाश्रमपीडेति परिमेयपुरः सरौ ।
अनुभावविशेषात्तु सेनापरिवृताविव ॥
- Surrounded by army इव Extraordinary majesty
1-41
श्रेणीबन्धाद्वितन्वद्भिरस्तम्भां तोरणस्रजम् ।
सारसैः कलनिर्ह्रादैः क्वचिदुन्नमिताननौ ॥
Garland hung across sky without supporting pillars Birds making formation - Formation
1-46
काप्यभिख्या तयोरासीद्व्रजतोः शुद्धवेषयोः ।
हिमनिर्मुक्तयोर्योगे चित्राचन्द्रमसोरिव ॥
Moon and star Citra are freed from clouds Splendour of the couple इव Splendor
1-47
तत्तद्भूमिपतिः पत्न्यै दर्शयन्प्रियदर्शनः ।
अपि लङ्घितमध्वानं बुबुधे न बुधोपमः ॥
Wise Dilipa उपम Intelligence
1-49
वनान्तरादुपावृत्तैः समित्कुशफलाहरैः ।
पूर्यमाणमदृश्याग्रिप्रत्युद्यातैस्तपस्विभिः ॥
Fire glowing Welcoming Dilipa - Come close and welcome
1-50
आकीर्णऋषिपत्नीनामुटजद्वाररोधिभिः ।
अपत्यैरिव नीवारभागधेयोचितैर्मृगैः ॥
Children Treatment of animals by rishis wives इव Compassion
1-56
विधेः सायंतनस्यान्ते स ददर्श तपोनिधिम् ।
अन्वासितमरुन्धत्या स्वाहयेव हविर्भुजम् ॥
Agni and Swaha Vashishta and Arundathi इव Unity
1-61
तव मन्त्रकृतो मन्त्रैर्दूरात्प्रशमितारिभिः ।
प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभिदः शराः ॥
Dilipa hitting visible target Vashishta doing mantra protects unknown enemies इव Piercing targets
1-68
सोऽहमिज्याविशुद्धात्मा प्रजालोपनिमीलितः ।
प्रकाशश्चाप्रकाशश्च लोकालोक इवाचलः ॥
Lokaloka mountain Dilipa इव Being in both light and darkness
1-70
तया हीनं विधातर्मां कथं पश्यन्न दूयसे? ।
सिक्तं स्वयमिव स्नेहाद्वन्ध्यमाश्रमवृक्षकम् ॥
Barren hermitage tree reared by Vashista Dilipa इव Reared by Vashista
1-71
असह्यपीडं भगवन्नृणमन्त्यमवेहि मे ।
अरुन्तुदमिवालानमनिर्वाणस्य दन्तिनः ॥
Irritating situation to an elephant Dilipa giving final debt to ancestors इव Unbearable pain
1-73
इति विज्ञापितो राज्ञा ध्यानस्तिमितलोचनः ।
क्षणमात्रमृषिस्तस्थौ सुप्तमीन इव ह्रदः ॥
In a lake fish are asleep Vashishta meditating इव Eyes remained
1-83
ललाटोदयमाभुग्नं पल्लवस्निग्धापाटला ।
बिभ्रती श्वेतरोमाङ्कं संध्येव शशिनं नवम् ॥
Evening twilight carrying moon Curved mark of white hair on nandini's head इव Carry
1-84
भुवं कोष्णेन कुण्डोध्नी मेध्येनावभृथादपि ।
प्रस्रवेणाभिवर्षन्ती वत्सालोकप्रवर्तिना ॥
Pot Udder of Nandini कुण्डोध्नी=कुण्ड–ऊधन् Big
1-85
रजःकणैः खुरोद्धूतैः स्पृशद्भिर्गात्रमन्तिकात् ।
तीर्थाभिषेकजां शुद्धिमादधाना महीक्षितः ॥
Bathing in theerta King bathing in dust of Nandini - Purity
1-87
अदूरवर्तिनीं सिद्धिं राजन्विगणयात्मनः ।
उपस्थितेयं कल्याणी नाम्नि कीर्तित एव यत् ॥
Nandini coming close Success of Dilipa coming close - Closeness
1-88
वन्यवृत्तिरिमां शश्वदात्मानुगमनेन गाम् ।
विद्यामभ्यसनेनेव प्रसादयितुमर्हसि ॥
Constantly practicing to master knowledge Constantly pleasing the cow इव Consistency
1-91
इत्या प्रसादादस्यास्त्वं परिचर्यापरो भव ।
अविघ्नमस्तु ते स्थेयाः पितेव धुरि पुत्रिणाम् ॥
Father Dilipa इव May you get son like your father

नन्दिनीवरप्रदानम् (Nandinivarapradanam)

क्रमः श्लोकः उपमानम् उपमेयम् वाचकः साधारणधर्मः
2-2
तस्याः खुरन्यासपवित्रपुंसुमपांसुलानां धुरि कीर्तनीया ।
मार्गं मनुष्येश्वरधर्मपत्नी श्रुतेरिवार्थं स्मृतिरन्वगच्छत् ॥
Smritis following Shrutis Sudakshina following cow इव follow
2-2
तस्याः खुरन्यासपवित्रपुंसुमपांसुलानां धुरि कीर्तनीया ।
मार्गं मनुष्येश्वरधर्मपत्नी श्रुतेरिवार्थं स्मृतिरन्वगच्छत् ॥
Smritis following Shrutis Sudakshina following cow इव follow
2-3
निवर्त्य राजा दयितां दयालुस्तां सौरभेयीं सुरभिर्यशोभिः ।
पयोधरीभूतचतुःसमुद्रां जुगोप गोरूपधरामिवोर्वीम् ॥
1.raja protecting earth 2.earth having 4 oceans 1.raja protecting cow 2.cow having udders इव 1.protecting 2.having
2-6
स्थितः स्थितामुञ्चलितः प्रयातां निषेदुषीमासनबन्धधीरः ।
जलाभिलाषी जलमाददानां छायेव तां भूपतिरन्वगच्छत् ॥
shadow following object Dilipa following cow इव follow
2-7
स न्यस्तचिह्नामपि राजलक्ष्मीं तेजोविशेषानुमितां तधानः ।
आसीदनाविष्कृतदानराजिरन्तर्मदावस्थ इव द्विपेन्द्रः ॥
Elephants rut fluid is not visible inner rut is seen Dilipa's outer ornaments were not kingly his inner splendor is seen इव possession of splendor
2-8
लताप्रतानोद्ग्रथितैः स कैशैरधिज्यधन्वा विचचार दावम् ।
रक्षापदेशान्मुनिहोमधेनोर्वन्यान्विनेष्यन्निव दुष्टसत्त्वान् ॥
Dilipa in forest to discipline wild beasts Dilipa in forest to protect cows इव Dilipa in forest
2-9
विसृष्टपार्श्वानुचरस्य तस्य पार्श्वद्रुमाः पाशभृता समस्य ।
उदीरयामासुरिवोन्मदानामालोकशब्दं वयसां विरावैः ॥
1. Varuna 2. shout of the word "look" to tell his presence 1. Dilipa 2. birds chirping इव 1. majesty 2. sound
2-10
मरुत्प्रयुक्ताश्च मरुत्सखाभं तमर्च्यमारादभिवर्तमानम् ।
अवाकिरन्बाललताः प्रसूनैराचारलाजैरिव पौरकन्याः ॥
city maidens putting grains on revered person creepers putting flower on Dilipa इव putting
2-11
धनुर्भृतोऽप्यस्य दयार्द्रभावमाख्यातमन्तःकरणैर्विशङ्कैः ।
विलोकयन्त्यो वपुरापुरक्ष्णां प्रकामविस्तारफलं हरिण्यः ॥
- - - compassionate nature
2-16
तां देवतापित्रतिथिक्रियार्थामन्वग्ययौ मध्यमलोकपालः ।
बभौ च सा मतेन सतां तेन श्रद्धेव साक्षाद्विधिनोपपन्ना ॥
faith personified with ritual Nandini and Dilipa इव accompany
2-19
वसिष्ठधेनोरनुयायिनं तमावर्तमानं वनिता वनान्तात् ।
पपौ निमेषालसपक्ष्मपङ्क्तिरुपोषिताभ्यामिव लोचनाभ्याम् ॥
eyes that had done a fasting eyes of sudakshina waiting इव eyes of Sudakshina
2-20
पुरस्कृता वर्त्मनि पार्थिवेन प्रत्युद्गता पार्थिवधर्मपत्न्या ।
तदन्तरे सा विरराज धेनुर्दिनक्षपामध्यगतेव संध्या ॥
twilight inbetween day and night cow inbetween Dilipa and Sudakshina इव presence of object
2-21
प्रदक्षिणीकृत्य पयस्विनीं तां सुदक्षिणा साक्षतपात्रहस्ता ।
प्रणम्य चानर्च विशालमस्याः श्रृङ्गान्तरं द्वारमिवार्थसिद्धेः ॥
gateway to fulfillment of desire horns of the cow इव gap of horns
2-28
तदीयमाक्रन्दितमार्तसाधोर्गुहानिबद्धप्रतिशब्ददीर्घम् ।
रश्मिष्ववादाय नगेन्द्रसक्तां निवर्तयामास नृपस्य दृष्टिम् ॥
seizing the sight by reins Dilipa seeing the afflicted cow इव turn and bring sight to control
2-29
स पाटलायां गवि तस्थिवांसं धनुर्धरः केसरिणं ददर्श ।
अधित्यकायामिव धातुमय्यां लोध्रद्रुमं सानुमतः प्रफुल्लम् ॥
lodhra tree on mineral rich plateau of mountain lion on the cow इव standing
2-31
वामेतरस्तस्य करः प्रहर्तुर्नखप्रभाभूषितकङ्कपत्रे ।
सक्ताङ्गुलिः सायकपुङ्ख एव चित्रार्पितारम्भ इवावतस्थे ॥
Dilipa on painting Dilipa not able to move इव got struck
2-32
बाहुप्रतिष्टम्भविवृद्धमन्युरभ्यर्णमागस्कृतमस्पृशद्भिः ।
राजा स्वतेजोभिरदह्यतान्तर्भोगीव मन्त्त्रौषधिरुद्धवीर्यः ॥
Venomous power is restrained by spells kings paralysis of arms इव king's angry is increasing on power restraint
2-34
अलं महीपाल! तव श्रमेण प्रयुक्तमप्यस्त्रमितो वृथा स्यात् ।
न पादणेन्मूलनशक्ति रंहः शिलोञ्चये मूर्च्छति मारुतस्य ॥
force of wind against heap of rocks weapon of Dilipa in vain against lion - -
2-35
कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतपृष्ठम् ।
अवेहि मां किंकरमष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्रम् ॥
as fair as kailasa complexion of kumbhodhara इव -
2-36
अमुं पुरः पश्यसि देवदारुं पुत्रीकृतोऽसौ वृषभध्वजेन ।
यो हेमकुम्भस्तननिःसृतानां स्कन्दस्य मातुः पयसां रसज्ञः ॥
golden pitcher bosoms of Parvati devi इव -
2-37
कण्डूयमानेन कटं कदाचिद्वन्यद्विपेनोन्मथिता त्वगस्य ।
अथैनमद्रेस्तनया शुशोच सेनान्यमालीढमिवासुरास्त्त्रैः ॥
Parvati devi's grief, when Skanda was injured by the astras of asuras Parvati devi's grief for the tree, when its bark got rubbed of by a wild elephant इव Parvati devi regarded the tree (devadaru) like her own son
2-39
तस्यालमेषा क्षुधितस्य तृप्त्यै प्रदिष्टकाला परमेश्वरेण ।
उपस्थिता शोणितपारणा मे सुरद्विषश्चान्द्रमसी सुधेव ॥
Nectar of the moon presents itself to Rahu (during lunar eclipse) Nandini walked into the hungry jaws of the lion इव how nandini (cow) was viewed as a prey by the lion
2-40
प्रत्यब्रवीञ्चैनमिषुप्रयोगे तत्पूर्वभङ्गे वितथप्रयत्नः ।
जडीकृतस्त्त्र्यम्बकवीक्षणेन वज्रं मुमुक्षन्निव वज्रपाणिः ॥
Indra wishing to release his thunderbolt but paralyzed by the gaze of Shiva. The king's effort in using the arrow was futile due to its unprecedented failure (his arms were paralysed, 2-32) इव Paralysis of arms when king is trying to release the arrow